Sri Sri Adya Stotram a Sanskrit hymn to Adya, Universal Mother and performed by Smt. Rama Basu
শ্রীশ্রী আদ্যাস্তোত্রম্; আদ্যা মায়ের বন্ধনায় একটি সংস্কৃত স্তবকীর্তন; কণ্ঠশিল্পী: শ্রীমতি রমা বসু
शृणु वत्स प्रवक्ष्यामि आद्यास्तोत्रं महाफलम्
यः पठेत् सततं भक्त्या स एव बिष्णुवल्लभः
मृत्युर्ब्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे
अपुत्र लभते पुत्रं त्रिपक्षं श्रवणं यदि
द्वौ मासौ बन्धनार्मुक्तिर्विप्रर्वक्त्रात् श्रुतं यदि
मृतवत्सा जीववत्सा षण्मासं श्र्रवणं यदि
नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात्
लिखित्वा स्थापयेद्-गेहे नाग्निचैरभयं क्वचित्
राजस्थाने जयी नित्यं प्रसन्ना सर्वदेवताः
ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला
इन्द्राणी अमरावत्यां अम्विका वरुणालये
यमालये कालरूपा कुबेरभवने शुभा
महानन्दाग्निकोणे च वायव्यां मृगवाहिनी
नैऋन्यां रक्तदन्ता च ऐशाण्यां शूलधारिणी
पाताले वैष्णवीरूपा सिंहले देवमोहिनी
सुरसा च मणीद्रिपे लङ्कायां भद्रकालिका
रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे
विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते
कालिका वङ्गदेशे च अयोध्यायां महेश्वरी
वाराणस्यमन्नपूर्णा गयाक्षेत्रे गयेश्वरी
कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा
द्वारकायां महामाया मथुरायां माहेश्वरी
क्षुधा त्वं सर्वभूताना वेला त्वं सागरस्य च
नवमी शुक्लपक्षस्य कृष्णस्यैकादशी परा
दक्षस्य दुहिता देवी दक्षयज्ञविनाशिनी
रामस्य जानकी त्वं हि रावणध्वंसकारिणी
चण्डमुण्डवधे देवी रक्तबीजविनाशिनी
निशुम्भशुम्भमथनी मधूकैटभघातिनी
विष्णुभक्तिप्रदा दूर्गा सुखदा मोक्षदा सदा
आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः
सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशानम्
कोटितीर्थफलं तस्य लभते नाथ् संशयः
जया मे चाग्रतः पातु विजया पातु पृष्ठतः
नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी
शिवदूती उग्रचन्डा प्रत्यङ्गे परमेश्वरी
विशालाक्षी महामाया कौमारी शङ्खिनी शिवा
चक्रिणी जयदात्री च रणमत्ता रणप्रिया
दुर्गा जयन्ती काली च भद्रकाली महोदरी
नारसिंही च वाराही सिद्धिदात्री सुखप्रदा
भयङ्करी महारौद्री महाभयविनाशिनी
इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्यास्तोत्रं समाप्तम्
Ещё видео!