श्रीशिवाष्टोत्तरशतनामस्तोत्रम् |
शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः । वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥
शंकरःशूलपाणिश्च खट्वाङ्गी विष्णुवल्लभःशिपिविष्टोऽम्बिकानाथःश्रीकण्ठो भक्तवत्सलः भवः शर्वस्त्रिलोकेशः शितिकण्ठः शिवाप्रियः । उग्रः कपालिः कामारिरन्धकासुरसूदनः ॥ गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः । भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ कैलासवासी कवची कठोरस्त्रिपुरान्तकः । वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥ सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः । सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः । विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः । भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ कृत्तिवासा पुरारातिर्भगवान् प्रमथाधिपः । मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ व्योमकेशो महासेनजनकश्चारुविक्रमः । रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥ अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः ।शाश्वतः खण्डपरशुरजपाशविमोचकः ॥
मृडः पशुपतिर्देवो महादेवोऽव्ययः प्रभुः । पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥ भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् । अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥
इमानि दिव्यनामानि जप्यन्ते सर्वदा मया । नामकल्पलतेयं मे सर्वाभीष्टप्रदायिनी ॥ नामान्येतानि सुभगे शिवदानि न संशयः । वेदसर्वस्वभूतानि नामान्येतानि वस्तुतः ॥ एतानि यानि नामानि तानि सर्वार्थदान्यतः । जप्यन्ते सादरं नित्यं मया नियमपूर्वकम् ॥ वेदेषु शिवनामानि श्रेष्ठान्यघहराणि च । सन्त्यनन्तानि सुभगे वेदेषु विविधेष्वपि ॥
तेभ्यो नामानि संगृह्य कुमाराय महेश्वरः । अष्टोत्तरसहस्रं तु नाम्नामुपदिशत् पुरा ॥
॥ इति श्रीशिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Ещё видео!