चतुर्थोध्याय सूत उवाच-यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम्। ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ॥1॥कियद् दूरे गते साधौ सत्यनारायण: प्रभु:। जिज्ञासां कृतवान् साधो! किमस्ति तव नौ स्थितम्॥2॥ततो महाजनौ मत्तौ हेलया च प्रहस्य वै। कथं पृच्छसि भो दण्डिन्! मुद्रां नेतुं किमिच्छसि॥3॥लता-पत्रादिकं चैव वर्तते तरणौ मम। निष्ठुरं च वच: श्रुत्वा सत्यं भवतु ते वच:॥4॥एवमुक्त्वा गत: शीघ्रं दण्डी तस्य समीपत:। कियद्दूरे ततो गत्वा स्थित: सिन्धुसमीपत:॥5॥गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा। उत्थितां तर णीं ट्टष्ट्वा विस्मयं परमं ययौ ॥6॥दृष्ट्वा लतादिकं चैव मूच्र्छितो न्यपतद् भुवि। लब्धसं ज्ञो वणिक् पुत्रास्ततश्चिन्ताऽन्वितोऽभवत्॥7॥तदा तु दुहितु: कान्तो वचनं चेदमब्रवीत्॥ किमर्थं क्रियते शोक: शापो दत्तश्च दण्डिना॥8॥शक्यतेऽनेन सर्वं हि कर्तुं चात्रा न संशय:। अतस्तच्छरणं याहि वञ्छितार्थो भविष्यति ॥9॥जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा॥ द्दष्ट्वा च दण्डिनं भक्त्या नत्वा प्रोवाच सादरम्॥10॥क्षमस्व चापराधं मे यदुक्तं तव सन्नि धौ॥ एवं पुन: पुनर्नत्वा महाशोकाऽऽकुलोऽभवत्॥11॥प्रोवाच वचनं दण्डी विलपन्तं विलो क्य च। मारोदी: श्रृणु मद्वाक्यं मम पूजाबहिर्मुख:॥12॥ममाऽऽज्ञया च दुर्बुद्धे! लब्धं दु:खं मुहुर्मुहु:। तच्छ्रुत्वा भगवद् वाक्यं व्रतं कर्तुं समुद्यत:॥13॥साधुरुवाच-त्वन्मायामोहिता: सर्वे ब्रह्माद्यास्त्रिदिवौकस:। न जानन्ति गुणान् रूपं तवाऽऽश्चर्यर्ममिदं प्रभो॥14॥मूढोऽहं त्वां कथं जाने मोहितस्तव मायया। प्रसीद पूजमिष्यामि यथाविभवविस्तरै:॥15॥पुरा वित्तै श्च तत्सर्वै: पाहि मां शरणागतम्। श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दन:॥16॥वरं च वाञ्छितं दत्त्वा तत्रौवाऽन्तर्दधे हरि:। ततो नौकां समारुह्य दृष्ट्वा वित्तप्रपूरिताम्॥17॥कृपया सत्यदेवस्य सफलं वाञ्छितं मम। इत्युक्त्वा स्वजनै: सार्धं पूजां कृत्वा यथाविधि॥18॥हर्षेण चाऽभवत्पूर्ण: सत्यदेवप्रसादत:। नावं संयोज्य यत्नेन स्वदेशगमनं कृतम्॥19॥साधुर्जामातरं प्राह पश्य रत्नपुरीं मम। दूतं च प्रेषयामास निजवित्तस्य रक्षकम्॥20॥दूतो ऽसौ नगरं गत्वा साधुभार्यां विलोक्य च। प्रोवाच वाञ्छितंवाक्यं नत्वा बद्धाजलिस्तदा॥21॥निकटे नगरस्यैव जामात्रा सहितो वणिक्। आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युत:॥22॥श्रुत्वा दूतमुखाद् वाक्यं महाहर्षवती सती। सत्यपूजां तत: कृत्वा प्रोवाच तनुजां प्रति॥23॥ब्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च। इति मातृवच: श्रुत्वा व्रतं कृत्वा समासत:॥24॥प्रसादं च परित्यज्य गता साऽपि पतिं प्रति। तेन रुष्ट: सत्यदेवो भर्तारं तरणीं तथा॥25॥सं हृत्य च धनै: सार्धं जले तस्मिन्नमज्जयत्।तत: कलावती कन्या न विलोक्य निजं पतिम्॥26॥शोकेन महता तत्र रुदती चाऽपतद् भुवि। दृष्ट्वा तथाविधां नौकां कन्यां च बहुदु:खिताम् ॥27॥भीतेन मनसा साधु: किमाश्चर्यमिदं भवेत् चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहका: ॥28॥ततो लीलावती कन्या दृष्ट्वा सा विह्नलाऽभवत्। विललापऽतिदु: खेन भर्तारं चेदमब्र तीत्॥29॥इदानीं नौकया सार्धं कथं सोऽभूदलक्षित:। न जाने कस्य देवस्य हेलया चैव सा हृता॥30॥सत्यदेवस्य माहात्म्यं ज्ञातुं वा केन शक्यते। इत्युक्त्वा विलालपैवं ततश्च स्व जनै: सह॥31॥ततौ लीलावती कन्या क्रोडे कृत्वा रुरोद ह। तत: कलावती कन्या नष्टे स्वामि नि दु:खिता॥32॥गृहीत्वा पादुकां तस्याऽनुगन्तुं च मनोदधे। कन्यायाश्चरितं दृष्ट्वा सभा र्य: सज्जनो वणिक्॥33॥अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित्। हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया॥34॥सत्यपूजां करिष्यामि यथाविभवविस्तरम्। इति सर्वान् समा हूय कथयित्वा मनोरथम्॥35॥नत्वा च दण्डवद् भूमौ सत्यदेवं पुन: पुन:। ततस्तुष्ट: सत्य देवो दीनानां परिपालक:॥36॥जगाद वचनं चैनं कृपया भक्तवत्सल:। त्यक्त्त्वा प्रसादं ते कन्या पतिं दुरष्टुं समागता॥37॥अतोऽदृष्टोभवत्तस्या: कन्यकाया: पतिध्र्रुवम्। गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुन:॥38॥लब्धभत्ररी सुता साधो! भविष्यति न संश य:। कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात्॥39॥क्षिपंर तदा गृहं गत्वा प्रसादं च बुभो ज सा। तत् पश्चात्पुनरागत्य सा ददर्श निजं पतिम्॥40॥तत: कलावती कन्या जगाद पितरं प्रति। इदानीं च गृहं याहि विलम्बं कुरुषे कथम्॥41॥तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद वणिक्सुत:। पूजनं सत्यदेवस्य कृत्वा विधिविधानत:॥42॥धनैर्बन्धुगणै: सार्धं जगाम निज मन्दिरम्॥ पौर्णमास्यां च सङ्क्रान्तौ कृतवान् सत्यपूजनम्॥43॥इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ॥44॥इति श्री स्कन्दपुराणे रेवाखण्डे सूतशौनकसंवादे सत्यनारायण व्रतकथायां चतुर्थोऽध्याय:॥4॥
Ещё видео!