Dashakam 93 of Sriman Narayaneeyam has been recitation by Sri Shankararama Sharma in this video.
0:00॥ अथ त्रिनवतितमं दशकम् – ९३ – पञ्चविंशतिगुरवः ॥
0:10छन्दः – स्रग्धरा
बन्धु-स्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य माया-विलासम् ।
नानात्वाद्भ्रान्तिजन्यात्सति खलु गुण-दोषावबोधे विधिर्वा
व्यासेधो वा कथं तौ त्वयि निहित-मतेर्वीत-वैषम्य-बुद्धेः ॥१॥
0:47क्षुत्तृष्णा-लोप-मात्रे सतत-कृत-धियो जन्तवस्सन्त्यनन्ता-
स्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
तत्राप्यात्माऽऽत्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्त-चेता-
स्तापोच्छित्तेरुपायं स्मरति स हि सुहृत्स्वात्म-वैरी ततोऽन्यः ॥२॥
1:24त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोक-वृत्तेऽपि भूमन्
सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् ।
गृह्णीयामीश तत्तद्विषय-परिचयेऽप्यप्रसक्तिं समीरा-
द्व्याप्तत्वञ्चात्मनो मे गगन-गुरु-वशाद्भातु निर्लेपता च ॥३॥
2:00स्वच्छः स्यां पावनोऽहं मधुर उदक-वद्वह्नि-वन्मा स्म गृह्णां
सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्व-भूतेष्ववेयाम् ।
पुष्टिर्नष्टिः कलानां शशिन इव तनोर्नात्मनोऽस्तीति विद्यां
तोयादि-व्यस्त-मार्ताण्ड-वदपि च तनुष्वेकतां त्वत्प्रसादात् ॥४॥
2:38स्नेहाद्व्याधात्त-पुत्र-प्रणय-मृत-कपोतायितो मा स्म भूवं
प्राप्तं प्राश्नन्सहेय क्षुधमपि शयु-वत्सिन्धु-वत्स्यामगाधः ।
मा पप्तं योषिदादौ शिखिनि शलभ-वद्भृङ्ग-वत्सार-भागी
भूयासं किन्तु तद्वद्धन-चयन-वशान्माहमीश प्रणेशम् ॥५॥
3:15मा बद्ध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं
हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा मुहं ग्राम्य-गीतैः ।
नात्यासज्जेय भोज्ये झष इव बलिशे पिङ्गला-वन्निराशः
सुप्यां भर्तव्य-योगात्कुरर इव विभो सामिषोऽन्यैर्न हन्यै ॥६॥
3:52वर्तेय त्यक्तमानः सुखमति-शिशु-वन्निस्सहायश्चरेयं
कन्याया एक-शेषो वलय इव विभो वर्जितान्योन्य-घोषः ।
त्वच्चित्तो नावबुध्यै परमिषु-कृदिव क्ष्माभृदायान-घोषं
गेहेष्वन्य-प्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥७॥
4:27त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां
त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् ।
विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं
धत्ते सञ्चिन्त्यमानो मम तु बहु-रुजा-पीडितोऽयं विशेषात् ॥८॥
5:04ही ही मे देह-मोहं त्यज पवनपुराधीश यत्प्रेम-हेतो-
र्गेहे वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति ।
सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतञ्चाक्षि-कर्ण-
त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥९॥
5:39दुर्वारो देह-मोहो यदि पुनरधुना तर्हि निश्शेष-रोगान्
हृत्वा भक्तिं द्रढिष्ठां कुरु तव पद-पङ्केरुहे पङ्कजाक्ष ।
नूनं नाना-भवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
क्षुद्रे हा हन्त मा मा क्षिप विषय-रसे पाहि मां मारुतेश ॥१०॥
6:14|| इति श्रीमन्नारायणीये पञ्चविंशतिगुरवः नाम त्रिनवतितमं दशकं समाप्तम् ||
Take our “Meaning of Narayaneeyam – Discourses in English” to know the meaning of Narayaneeyam verses
[ Ссылка ]
SUBSCRIBE TO OUR CHANNEL FOR MORE CONTENT
[ Ссылка ]
For Free Course materials, Free audio and video access, visit [ Ссылка ]
THE LARGEST ONLINE STRUCTURED SANSKRIT E-LEARNING and REGISTER NOW FOR FREE
To buy our products, visit
[ Ссылка ]
Contribute now, to help us create this transformation: in INR
[ Ссылка ]
Contribute now, to help us create this transformation: in USD
[ Ссылка ]
For receiving regular updates, follow us on
Facebook - [ Ссылка ]
Twitter - [ Ссылка ]
Instagram - [ Ссылка ]
For any queries on your Sanskrit learning needs
sanskritfromhome@vyomalabs.in
Whatsapp or Call us: 9480865623
#narayaneeyam #chanting #vyomasanskrit
Ещё видео!