पुण्यश्लोकोंका स्मरण पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः । पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः । । अश्वत्थामा बलिया॑सो हनूमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ॥ कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् । । प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीषशुक शौनकभीष्म दाल्भ्यान् । रुक्माङदार्जुनवसिष्ठविभीषणादीन् पुण्यानिमान् परमभागवतान् नमामि ॥ धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन । शत्रर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवति वाराणस्यां भैरवो देवः संसारभयनाशनः । अनेकजन्मकतं पापं स्मरणेन विनश्यति । वाराणस्यां पूर्वभागे व्यासो नारायणः स्वयम । तस्य स्मरणमात्रेण अज्ञानी ज्ञानवान् भवेत वाराणस्यां पश्चिमे भागे भीमचण्डी महासती । तस्याः स्मरणमात्रेण सर्वदा विजयी भवेत् ॥ पुण्यश्लोकोंका स्मरण वाराणस्यामुत्तरे भागे सुमन्तु म वै द्विजः । तस्य स्मरणमात्रेण निर्धनो धनवान् भवेत् ॥ वाराणस्यां दक्षिणे भागे कुक्कुटो नाम ब्राह्मणः । तस्य स्मरणमात्रेण दुःस्वजः सुस्वप्नो भवेत् ॥ उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् । पातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ॥ सोमनाथो वैद्यनाथो धन्वन्तरिरथाश्विनौ । पञ्चैतान् यः स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥ कपिलः कालियोऽनन्तो वासुकिस्तक्षकस्तथा । पञ्चैतान् स्मरतो नित्यं विषबाधा न जायते ॥ हरं हरिं हरिश्चन्द्रं हनूमन्तं हलायुधम् । पञ्चकं वै स्मरेन्नित्यं घोरसंकटनाशनम् ॥ आदित्यश्च उपेन्द्रश्च चक्रपाणिमहेश्वरः । दण्डपाणिः प्रतापी स्यात् क्षुत्तृड्बाधा न बाधते ॥ वसुर्वरुणसोमौ च सरस्वती च सागरः । पञ्चैतान् संस्मरेद् यस्तु तृषा तस्य न बाधते ॥ सनत्कुमारदेवर्षिशुकभीष्मप्लवङ्गमाः । पञ्चैतान् स्मरतो नित्यं कामस्तस्य न बाधते ॥ रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपिः । पञ्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ॥ विश्वेशं माधवं ढुण्ढि दण्डपाणिं च भैरवम् । वन्दे काशी गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥ महर्षिर्भगवान् व्यासः कृत्वेमां संहितां पुरा । श्लोकैश्चतुर्भिर्धर्मात्मा पुत्रमध्यापयच्छुकम् ॥ मातापितृसहस्त्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ नित्यकर्म - पूजाप्रकाश भयस्थानशतानि च । हर्षस्थानसहस्राणि दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ न जातु कामान्न भयान्न लोभाद् धर्म त्यजेज्जीवितस्यापि हेतोः । धर्मो नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः । । इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् । स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥ केदारं हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् । वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥ वैद्यनाथं चिताभूमौ नागेशं दारुकावने । सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ॥ द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् । सर्वपापविनिर्मुक्तः सर्वसिद्धिफलो भवेत् ॥ दैनिक कत्य - सूची - निर्धारण - इसी समय दिन - रातके कार्योकी सची तैयार कर लें । आज धर्मके कौन - कौनसे कार्य करने हैं । धनके लिये क्या करना है ? शरीरमें कोई कष्ट तो नहीं है ? यदि है तो उसके कारण क्या हैं और उनका प्रतीकार क्या है ?
साभार नित्य कर्म पूजा प्रकाश गीता प्रेस गोरखपुर
Ещё видео!