Ram Raksha Stotram With Lyrics 5 Paath | श्री राम रक्षा स्तोत्रम् | रामायण पाठ नित्य सुनें
ramraksha stotram with lyrics
ram raksha stotra with lyrics
ramraksha stotram lyrics
ram raksha stotra with lyrics in marathi
ram raksha stotram with hindi lyrics
ram raksha stotra with lyrics fast
ram raksha stotra lyrics
ramraksha stotra path
sri ram raksha stotram
ram raksha stotra path
ram raksha stotra arth sahit
ramraksha lyrics
shri ramraksha stotram
sri rama raksha stotram
chamatkari ram raksha stotra
ram raksha stotram
ramraksha stotram
श्रीरामरक्षास्तोत्रम्
॥ ॐ श्रीगणेशाय नमः ॥
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । बुधकौशिक ऋषिः ।
श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छन्दः ।
सीता शक्तिः । श्रीमद् हनुमान कीलकम् ।
श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ॥
इति ध्यानम् ॥
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महा पातक नाशनम् ॥ १॥
ध्यात्वा नीलोत् पल श्यामं रामं राजीव लोचनम् ।
जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् ॥ २॥
सासितूण धनुर्बाणं पाणिं नक्तञ्च रान्तकम् ।
स्वलीलया जगत् त्रातु माविर्भूत मजं विभुम् ॥ ३॥
रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्व कामदाम् ।
शिरो मे राघवः पातु भालं दशरथात् मजः ॥ ४॥
कौसल् येयो दृशौ पातु विश्वामित्र प्रियः श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रि वत्सलः ॥ ५॥
जिह्वां विद्या निधिः पातु कण्ठं भरत वन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेश कार्मुकः ॥ ६॥
करौ सीतापतिः पातु हृदयं जामदग् न्यजित् ।
मध्यं पातु खर ध्वंसी नाभिं जाम्ब वदाश्रयः ॥ ७॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत् प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुल विनाश कृत् ॥ ८॥
जानुनी सेतु कृत्पातु जङ्घे दश मुखान्तकः ।
पादौ बिभीषण श्रीदः पातु रामोऽखिलं वपुः ॥ ९॥
एतां राम बलोपेतां रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १०॥
पाताल भूतल व्योम चारिणश्छद्म चारिणः ।
न द्रष्टु मपि शक्तास्ते रक्षितं राम नामभिः ॥ ११॥
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ १२॥
जगज्जैत्रैक मन्त्रेण रामनाम् नाभि रक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्व सिद्धयः ॥ १३॥
वज्र पञ्ज रनामेदं यो रामकवचं स्मरेत् ।
अव्या हताज्ञः सर्वत्र लभते जय मङ्गलम् ॥ १४॥
आदिष्ट वान् यथा स्वप्ने राम रक्षा मिमां हरः ।
तथा लिखित वान् प्रातः प्रबुद्धो बुध कौशिकः ॥ १५॥
आरामः कल्प वृक्षाणां विरामः सकला पदाम् ।
अभिराम स्त्रि लोकानां रामः श्रीमान् सनः प्रभुः ॥ १६॥
तरुणौ रूप सम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरी कवि शालाक्षौ चीरकृष्णा जिनाम्बरौ ॥ १७॥
फलमूला शिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ राम लक्ष्मणौ ॥ १८॥
शरण्यौ सर्व सत्त्वानां श्रेष्ठौ सर्व धनुष्मताम् ।
रक्षः कुल निहन् तारौ त्रायेतां नो रघूत्तमौ ॥ १९॥
आत्तसज्जधनुषा विषुस्पृशा वक्षयाशुगनिषङ्ग सङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रतः पथि सदैव गच्छताम् ॥ २०॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २१॥
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ २२॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः ॥ २३॥
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ २४॥
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नराः ॥ २५॥
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरम् ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् ।
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ २६॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७॥
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥ २८॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥ २९॥
माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालु-
र्नान्यं जाने नैव जाने न जाने ॥ ३०॥
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३१॥
लोकाभिरामं रणरङ्गधीरं
राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं
श्रीरामचन्द्रम् शरणं प्रपद्ये ॥ ३२॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ॥ ३३॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ३४॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥ ३६॥
रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ३७॥
रामरामेति रामेति रमे रामे मनोरमे । (श्रीरामरामरामेति)
सहस्रनामतत्तुल्यं रामनाम वरानने ॥ ३८॥
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ॥
॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥
Ещё видео!