All the verses of Dashakam 33 have been recited here.
0:00 || दशकम् – ३३ अम्बरीषचरितम् ||
छन्दः – वसन्ततिलका
0:10 वैवस्वताख्यमनुपुत्रनभागजात
नाभागनामकनरेन्द्रसुतोऽम्बरीषः ।
सप्तार्णवावृतमहीदयितोऽपि रेमे
त्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥१॥
0:31 त्वत्प्रीतये सकलमेव वितन्वतोऽस्य
भक्त्यैव देव नचिरादभृथाः प्रसादम् ।
येनास्य याचनमृतेऽप्यभिरक्षणार्थं
चक्रं भवान्प्रविततार सहस्रधारम् ॥२॥
0:54 स द्वादशीव्रतमथो भवदर्चनार्थं
वर्षं दधौ मधुवने यमुनोपकण्ठे ।
पत्न्या समं सुमनसा महतीं वितन्वन्
पूजां द्विजेषु विसृजन्पशुषष्टिकोटिम् ॥३॥
1:17 तत्राथ पारणदिने भवदर्चनान्ते
दुर्वाससाऽस्य मुनिना भवनं प्रपेदे ।
भोक्तुं वृतश्च स नृपेण परार्तिशील:
मन्दं जगाम यमुनां नियमान्विधास्यन् ॥४॥
1:41 राज्ञाथ पारणमुहूर्तसमाप्तिखेदात्
वारैव पारणमकारि भवत्परेण ।
प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्
क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥५॥
2:05 कृत्यां च तामसिधरां भुवनं दहन्तीम्
अग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥६॥
2:30 धावन्नशेषभुवनेषु भिया स पश्यन्
विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् ।
कः कालचक्रमतिलङ्घयतीत्यपास्तः
शर्वं ययौ स च भवन्तमवन्दतैव ॥७॥
2:55 भूयो भवन्निलयमेत्य मुनिं नमन्तं
प्रोचे भवानहमृषे ननु भक्तदासः ।
ज्ञानं तपश्च विनयान्वितमेव मान्यं
याह्यम्बरीषपदमेव भजेति भूमन् ॥८॥
3:18 तावत्समेत्य मुनिना स गृहीतपाद:
राजाऽपसृत्य भवदस्त्रमसावनौषीत् ।
चक्रे गते मुनिरदादखिलाशिषोऽस्मै
त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥९॥
3:42 राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्
सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नम् ।
भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्
सायुज्यमाप च स मां पवनेश पायाः ॥१०॥
4:07 || इति श्रीमन्नारायणीये अम्बरीषचरितं नाम त्रयस्त्रिंशत्तमं दशकं समाप्तम् ||
Visit our website for the course materials
[ Ссылка ]
Take our “Meaning of Narayaneeyam – Discourses in English” to know the meaning of Narayaneeyam verses
[ Ссылка ]
SUBSCRIBE TO OUR CHANNEL FOR MORE CONTENT
[ Ссылка ]
For Free Course materials, Free audio and video access, visit [ Ссылка ]
THE LARGEST ONLINE STRUCTURED SANSKRIT E-LEARNING and REGISTER NOW FOR FREE
To buy our products, visit
[ Ссылка ]
Contribute now, to help us create this transformation: in INR
[ Ссылка ]
Contribute now, to help us create this transformation: in USD
[ Ссылка ]
For receiving regular updates, follow us on
Facebook - [ Ссылка ]
Twitter - [ Ссылка ]
Instagram - [ Ссылка ]
For any queries on your Sanskrit learning needs
sanskritfromhome@vyomalabs.in
Whatsapp or Call us: 9480865623
#narayaneeyam #chanting #vyomasanskrit
Ещё видео!