All the verses of Dashakam 29 have been recited here.
0:00 || दशकम् – २९ मोहिन्यवतारं आदि ||
छन्दः - वसन्ततिलका
0:10 उद्गच्छतस्तव करादमृतं हरत्सु
दैत्येषु तानशरणाननुनीय देवान् ।
सद्यस्तिरोदधिथ देव भवत्प्रभावात्
उद्यत्स्वयूथ्यकलहा दितिजा बभूवुः ॥१॥
0:34 श्यामां रुचापि वचसापि तनुं तदानीं
प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् ।
पीयूषकुम्भकलहं परिमुच्य सर्वे
तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥२॥
0:58 का त्वं मृगाक्षि विभजस्व सुधामिमामित्या-
रूढरागविवशानभियाचतोऽमून् ।
विश्वस्यते मयि कथं कुलटास्मि दैत्या:
इत्यालपन्नपि सुविश्वसितानतानीः ॥३॥
1:25 मोदात्सुधाकलशमेषु ददत्सु सा त्वं
दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
पङ्क्तिप्रभेदविनिवेशितदेवदैत्या:
लीलाविलासगतिभिः समदाः सुधां ताम् ॥४॥
1:51 अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु
जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
त्वं भक्तलोकवशगो निजरूपमेत्य
स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥५॥
2:16 त्वत्तः सुधाहरणयोग्यफलं परेषु
दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।
घोरेऽथ मूर्छति रणे बलिदैत्यमाया-
व्यामोहिते सुरगणे त्वमिहाविरासीः ॥६॥
2:41 त्वं कालनेमिमथ मालिमुखाञ्जघन्थ
शक्रो जघान बलिजम्भवलान् सपाकान् ।
शुष्कार्द्रदुष्करवधे नमुचौ च लूने
फेनेन नारदगिरा न्यरुणो रणं त्वम् ॥७॥
3:05 योषावपुर्दनुजमोहनमाहितं ते
श्रुत्वा विलोकनकुतूहलवान्महेशः ।
भूतैस्समं गिरिजया च गतः पदं ते
स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥८॥
3:30 आरामसीमनि च कन्दुकघातलीला-
लोलायमाननयनां कमनीं मनोज्ञाम् ।
त्वामेष वीक्ष्य विगलद्वसनां मनोभू-
वेगादनङ्गरिपुरङ्ग समालिलिङ्ग ॥९॥
3:54 भूयोऽपि विद्रुतवतीमुपधाव्य देव:
वीर्यप्रमोक्षविकसत्परमार्थबोधः ।
त्वन्मानितस्तव महत्वमुवाच देव्यै
तत्तादृशस्त्वमव वातनिकेतनाथ ॥१०॥
4:19 || इति श्रीमन्नारायणीये मोहिन्यवतारं नाम एकोनत्रिंशत्तमं दशकं समाप्तम् ||
Visit our website for the course materials
[ Ссылка ]
Take our “Meaning of Narayaneeyam – Discourses in English” to know the meaning of Narayaneeyam verses
[ Ссылка ]
SUBSCRIBE TO OUR CHANNEL FOR MORE CONTENT
[ Ссылка ]
For Free Course materials, Free audio and video access, visit [ Ссылка ]
THE LARGEST ONLINE STRUCTURED SANSKRIT E-LEARNING and REGISTER NOW FOR FREE
To buy our products, visit
[ Ссылка ]
Contribute now, to help us create this transformation: in INR
[ Ссылка ]
Contribute now, to help us create this transformation: in USD
[ Ссылка ]
For receiving regular updates, follow us on
Facebook - [ Ссылка ]
Twitter - [ Ссылка ]
Instagram - [ Ссылка ]
For any queries on your Sanskrit learning needs
sanskritfromhome@vyomalabs.in
Whatsapp or Call us: 9480865623
#narayaneeyam #chanting #vyomasanskrit
Ещё видео!