श्रद्धासूक्तम्
ऋग्वेद (शाकल संहिता १०. १५१) (आश्वलायन संहिता १०.१५४)
ऋषिः- श्रद्धा कामायनी । देवता- श्रद्धा । छन्दः- १, ४, ५ अनुष्टुप्;
२ विराडनुष्टुप्; ३ निचृदनुष्टुप् ।
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥ १ ॥
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥ २ ॥
यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥ ३ ॥
श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धां हृ॑द॒य्य॑ १॒ याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥ ४ ॥
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ ।
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥ ५ ॥
#veda #vedas #vedic #vedicchanting #vedicchants #vedicchant #mantra #mantrachanting #mantrameditation #shraddha #faith #believe #believer #belief #sanskritmantra #indianwisdom #indianhistory #rigveda #sukta #suktam #meditation #confidence #vedamantra #dhyan #bharat #sanskrit #devi #deity #vedanta #india #indianphilosophy #proudtobeindian #rishi #mandala #marathi #meaning #upanishad
Ещё видео!