Dashakam 81 of Sriman Narayaneeyam has been recitation by Sri Shankararama Sharma in this video.
0:00|| दशकम् – ८१ नरकासुरवधं तथा सुभद्राहरणम् ||
छन्दः – मन्दाक्रान्ता
0:10 स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां
यातो भूयः सह खलु तया याज्ञसेनी-विवाहम् ।
पार्थ-प्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां
शक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥१॥
0:40 भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां
त्वद्वाचा तामहृत कुहना-मस्करी शक्रसूनुः ।
तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं
शक्रप्रस्थं प्रिय-सख-मुदे सत्यभामा-सहायः ॥२॥
1:12 तत्र क्रीडन्नपि च यमुना-कूल-दृष्टां गृहीत्वा
तां कालिन्दीं नगरमगमः खाण्डव-प्रीणिताग्निः ।
भ्रातृ-त्रस्तां प्रणय-विवशां देव पैतृष्वसेयीं
राज्ञां मध्ये सपदि जहृषे मित्रविन्दामवन्तीम् ॥३॥
1:43 सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां
बध्वा सप्तापि च वृष-वरान्सप्त-मूर्तिर्निमेषात् ।
भद्रां नाम प्रददुरथ ते देव सन्तर्दनाद्या:
तत्सोदर्या वरद भवतः साऽपि पैतृष्वसेयी ॥४॥
2:15 पार्थाद्यैरप्यकृत-लवनं तोय-मात्राभिलक्ष्यं
लक्षं छित्वा शफरमवृथा लक्ष्मणां मद्रकन्याम् ।
अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये
शुश्रोथ त्वं सुरपति-गिरा भौम-दुश्चेष्टितानि ॥५॥
छन्दः – शिखरिणी
2:45 स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगम:
वहन्नङ्के भामामुपवनमिवाराति-भवनम् ।
विभिन्दन् दुर्गाणि त्रुटित-पृतना-शोणित-रसैः
पुरं तावत्प्राग्ज्योतिषमकुरुथा: शोणितपुरम् ॥६॥
3:11 मुरस्त्वां पञ्चास्यो जलधि-वन-मध्यादुदपतत्
स चक्रे चक्रेण प्रदलित-शिरा मङ्क्षु भवता ।
चतुर्दन्तैर्दन्तावलपतिभिरिन्धान-समरं
रथाङ्गेन छित्वा नरकमकरोस्तीर्णनरकम् ॥७॥
3:40 स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
गजञ्चैकं दत्वा प्रजिघयिथ नागान्निज-पुरीम् ।
खलेनाबद्धानां स्वगत-मनसां षोडश पुनः
सहस्राणि स्त्रीणामपि च धन-राशिं च विपुलम् ॥८॥
छन्दः – शार्दूलविक्रीडितम्
4:07 भौमापाहृत-कुण्डलं तददितेर्दातुं प्रयातो दिवं
शक्राद्यैर्महितः समं दयितया द्यु-स्त्रीषु दत्त-ह्रिया ।
हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागम:
तत्तु श्री-मद-दोष ईदृश इति व्याख्यातुमेवाकृथाः ॥९॥
छन्दः – स्रग्धरा
4:40 कल्पद्रुं सत्यभामा-भवन-भुवि सृजन्द्व्यष्ट-साहस्र-योषाः
स्वीकृत्य प्रत्यगारं विहित-बहु-वपुर्लालयन्केलिभेदैः ।
आश्चर्यान्नारदालोकित-विविध-गतिस्तत्र तत्रापि गेहे
भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ॥१०॥
5:15 || इति श्रीमन्नारायणीये नरकासुरवधं तथा सुभद्राहरणं चेति एकाशीतितमं दशकं समाप्तम् ||
Take our “Meaning of Narayaneeyam – Discourses in English” to know the meaning of Narayaneeyam verses
[ Ссылка ]
SUBSCRIBE TO OUR CHANNEL FOR MORE CONTENT
[ Ссылка ]
For Free Course materials, Free audio and video access, visit [ Ссылка ]
THE LARGEST ONLINE STRUCTURED SANSKRIT E-LEARNING and REGISTER NOW FOR FREE
To buy our products, visit
[ Ссылка ]
Contribute now, to help us create this transformation: in INR
[ Ссылка ]
Contribute now, to help us create this transformation: in USD
[ Ссылка ]
For receiving regular updates, follow us on
Facebook - [ Ссылка ]
Twitter - [ Ссылка ]
Instagram - [ Ссылка ]
For any queries on your Sanskrit learning needs
sanskritfromhome@vyomalabs.in
Whatsapp or Call us: 9480865623
#narayaneeyam #chanting #vyomasanskrit
Ещё видео!