Dashakam 80 of Sriman Narayaneeyam has been recitation by Sri Shankararama Sharma in this video.
0:00 || दशकम् – ८० स्यमन्तकोपाख्यानम् ||
छन्दः - वसन्ततिलका
0:09 सत्राजितस्त्वमथ लुब्ध-वदर्क-लब्धं
दिव्यं स्यमन्तक-मणिं भगवन्नयाचीः ।
तत्कारणं बहु-विधं मम भाति नूनं
तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥१॥
छन्दः – शिखरिणी
0:29 अदत्तं तं तुभ्यं मणिवरमनेनाल्प-मनसा
प्रसेनस्तद्भ्राता गल-भुवि वहन्प्राप मृगयाम् ।
अहन्नेनं सिंहो मणि-महसि मांस-भ्रम-वशात्
कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥२॥
0:53 शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणि-हरं
जनानां पीयूषं भवति गुणिनां दोष-कणिका ।
ततः सर्वज्ञोऽपि स्व-जन-सहितो मार्गण-परः
प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपि-गुहाम् ॥३॥
1:22 भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्
मुकुन्द-शरणं हि मां क इह रोद्धुमित्यालपन् ।
विभो रघुपते हरे जय जयेत्यलं मुष्टिभि:
चिरं तव समर्चनं व्यधित भक्तचूडामणिः ॥४॥
छन्दः – गीति (12,18,12,18 - मात्रिक्)
1:43 बुध्वाऽथ तेन दत्तां
नव-रमणीं वर-मणिं च परिगृह्णन् ।
अनुगृह्णन्नमुमागाः
सपदि च सत्राजिते मणिं प्रादाः ॥५॥
छन्दः – हरिणी
1:57 तदनु स खलु व्रीलालोलो विलोल-विलोचनां
दुहितरमहो धीमान्भामां गिरैव परार्पिताम् ।
अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
प्रमुदित-मनास्तस्यैवादान्मणिं गहनाशयः ॥६॥
छन्दः – वसन्ततिलका
2:22 व्रीलाकुलां रमयति त्वयि सत्यभामां
कौन्तेय-दाह-कथयाथ कुरून्प्रयाते ।
ही गान्दिनेय-कृतवर्म-गिरा निपात्य
सत्राजितं शतधनुर्मणिमाजहार ॥७॥
2:39 शोकात्कुरूनुपगतामवलोक्य कान्तां
हत्वा द्रुतं शतधनुं समहर्षयस्ताम् ।
रत्ने सशङ्क इव मैथिल-गेहमेत्य
रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥८॥
2:58 अक्रूर एष भगवन् भवदिच्छयैव
सत्राजितः कुचरितस्य युयोज हिंसाम् ।
अक्रूरतो मणिमनाहृतवान्पुनस्त्वं
तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥९॥
3:17 भक्तस्त्वयि स्थिरतरः स हि गान्दिनेय:
तस्यैव कापथ-मतिः कथमीश जाता ।
विज्ञानवान्प्रशमवानहमित्युदीर्णं
गर्वं ध्रुवं शमयितुं भवता कृतैव ॥१०॥
3:37 यातं भयेन कृतवर्मयुतं पुनस्त-
माहूय तद्विनिहितं च मणिं प्रकाश्य ।
तत्रैव सुव्रत-धरे विनिधाय तुष्यन्
भामा-कुचान्त-शयन: पवनेश पायाः ॥११॥
Take our “Meaning of Narayaneeyam – Discourses in English” to know the meaning of Narayaneeyam verses
[ Ссылка ]
SUBSCRIBE TO OUR CHANNEL FOR MORE CONTENT
[ Ссылка ]
For Free Course materials, Free audio and video access, visit [ Ссылка ]
THE LARGEST ONLINE STRUCTURED SANSKRIT E-LEARNING and REGISTER NOW FOR FREE
To buy our products, visit
[ Ссылка ]
Contribute now, to help us create this transformation: in INR
[ Ссылка ]
Contribute now, to help us create this transformation: in USD
[ Ссылка ]
For receiving regular updates, follow us on
Facebook - [ Ссылка ]
Twitter - [ Ссылка ]
Instagram - [ Ссылка ]
For any queries on your Sanskrit learning needs
sanskritfromhome@vyomalabs.in
Whatsapp or Call us: 9480865623
#narayaneeyam #chanting #vyomasanskrit
Ещё видео!